श्री ललिता पंचक स्तोत्र – Lalita Panchakam
|| श्री ललिता पंचक स्तोत्र ||
प्रातः स्मरामि ललिता वदना विन्दम् |
बिम्बाधरं पृथुलमौक्तिकशोभिनासम् |
आकर्णदीर्धनयनं मणिकुण्डलाढ्यं |
मन्दस्मितं मृगमदौज्ज्वलफालदेशम् || 1
प्रातर्भजामि ललिताभुजकल्पवल्लीं |
रक्ताङ्गुलीयलसदंगुलिपल्लवाढ्याम् |
माणिक्यहेमवलयाङ्गदशोभमानां |
पुण्ड्रेक्षुचाप कुसुमेषुसृणीर्दधानाम् || 2
प्रातर्नमामि ललिताचरणारविन्दं |
भक्तेष्टदाननिरतं भवसिन्धुपोतम् ||
पद्मासनादिसुरनायकपूजनीयं |
पद्मांकुशध्वजसुदर्शनलान्छनाढ्यम् || 3
प्रातः स्तुवे परशिवां ललितां भवानीं |
त्रय्यन्तवेद्यविभवां करूणानवद्याम् ||
विश्वस्य सृष्टिविलयस्थितिहेतुभूतां
विद्येश्वरीं निगमवानमनसातिदूराम् || 4
प्रातर्वदामि ललिते तव पुण्यनाम
कामेश्वरीति कमलेति महेश्वरीति |
श्रीशाम्भवीति जगतां जननी परेति |
वाग्देवतेति वचसा त्रिपुरेश्वरीति || 5
यः श्लोकपञ्चकमिदं ललिताम्बिकायाः |
सौभाग्यदं सुललितं पठति प्रभाते ||
तस्मै ददाति ललिता झटिति प्रसन्ना |
विद्यां श्रियं विमलसौख्य मनन्तकीर्तिम् || 6
श्री ललिता पंचक स्तोत्र – Lalita Panchakam