Shloka from bhagavad gita in sanskrit | भगवत गीता श्लोक संस्कृत

भगवत गीता एक अत्यंत महत्वपूर्ण ग्रंथ है जो जीवन को समझने में सहायता करता है

shloka from bhagavad gita in sanskrit | भगवत गीता श्लोक संस्कृत

Shloka from bhagavad gita in sanskrit | भगवत गीता श्लोक संस्कृत

श्री हरिः

त्वमेव माता च पिता त्वमेव 
त्वमेव बन्धुश्च सखा त्वमेव | 
त्वमेव विद्या द्रविणं त्वमेव 
त्वमेव सर्वं मम देवदेव || 

धर्मक्षेत्रे कुरुक्षेत्रे सवेटा युयुत्सवः | 
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ||  

दृष्ट् वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा 
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्  ||  
पश्यैतां पाण्डुपुत्रनामाचार्य महतीं चमूम्
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता || 

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि | 
युयुधानो विराटश्च द्रुपदश्च महारथः || 

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् | 
पुरुजित्कुन्तिभोजश्च शैव्यश्च नरपुंगवः || 

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् | 
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः || 

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम | 
नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते || 

भावन् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः |
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च || 

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः
नानाशास्त्रप्रहरणाः सर्वे युद्धविशारदाः || 

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् |
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् || 

अयनेषु च सर्वेषु यथाभागमवस्थिताः |
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ||

तस्य सञ्जनयन् हर्षं कुरुवृद्धिः  पितामहः |
सिंहनादं विनद्योच्चैः संख दध्मौ प्रतापवान् ||  

ततः शंखश्च भेर्यश्च पणवानकगोमुखाः |
सहसैवाभ्यहन्यन्त स शब्दस्तुमूलोभावत् ||

ततः  श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ |
माधवः पाण्डवश्चैव दिव्यौ शंखौ प्रदध्मतुः || 

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः |
पौण्ड्रं दध्मौ महाशंखं भीमकर्मा वृकोदरः || 

अनन्तविजयं राजा कुन्ती पुत्रो युधिष्ठिरः |
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ || 

काश्यश्च परमेष्वासः शिखण्डी च महारथः |
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः || 

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते |
सौभद्रश्च महाबाहुः शंखान्दध्मुः पृथक्पृथक् ||

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् |
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् || 

अथ व्यवस्थितान्दृष्टवा धार्तराष्ट्रन कपिध्वजः |
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः || 

हृषीकेशं तदा वाक्यमिदमाह महीपते |
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत || 

यावदेतान्निरीक्षेऽहं योध्दुकामानवस्थित् |
कैर्मया सह योध्दव्यमस्मिन् रणसमुद्यमे ||

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः |
धार्तराष्ट्रस्त दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ||

एवमुक्तो हृषीकेशो गुडाकेशन भारत |
सेनयोरुभयोर्मध्ये स्थापयित्वा राथोत्तमम् ||

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् |
उवाच पार्थ पश्यैतान् समवेतान् कुरुनिति ||

तत्रापश्यत्स्थितान् पार्थः पितृनाथ पितामहन् |
आचार्यान्मातुलान् भ्रातृन् पुत्रान् सखींस्तथा ||

श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि |
तान् समीक्ष्य स कौन्तेयः सर्वान् बंधूनवस्थितान्||

कृपया परयाविष्टो विषीदन्निदमब्रवीत् |
दृष्टवेमं स्वजनं कृष्ण युतुत्सुं समुपस्थितम् ||

सीदन्ति मम गात्राणि मुखं च परिशुष्यति |
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ||

गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यये |
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ||

निमित्तानि च पश्यामि विपरीतानि केशव |
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ||

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च |
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ||

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च |
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ||

आचार्याः पितरः पुत्रास्तथैव च पितामहाः |
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ||

एतात्र हन्तुमिच्छामि घ्नतोऽपि मधुसूदन |
अपि त्रैलोक्य राज्यस्य हेतोः किं नु महीकृते ||

निहत्य धार्तराष्ट्रन्नः का प्रीतिः स्याज्जनार्दन |
पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः ||

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् |
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ||

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः |
कुलक्षयकृतं दोषं मित्रदोहे च पाटकम्‌ ||

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्‌ |
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ||

 

  • भगवत गीता के श्लोक जीवन के हर पहलू-धर्म, कर्म, आत्मा, शांति, और मोक्ष-का गूढ़ दर्शन प्रस्तुत करते हैं। इन श्लोकों का अध्ययन व्यक्ति को सही मार्ग पर चलने, मानसिक शांति पाने, और जीवन के कर्तव्यों को समझने की प्रेरणा देता है

Shloka from bhagavad gita in sanskrit | भगवत गीता श्लोक संस्कृत

हिन्दू धर्म के संस्कृत मंत्र

Leave a Reply

Your email address will not be published. Required fields are marked *