Shiva raksha stotram lyrics – शिव रक्षा स्तोत्र

Shiva raksha stotram lyrics - शिव रक्षा स्तोत्र

Shiva raksha stotram lyrics – शिव रक्षा स्तोत्र

|| ॐ शिव रक्षा स्तोत्र ||

चरितं देवदेवस्य महादेवस्य पवनम् |
अपारं परमोदरं चतुर्वर्गस्य साधनम् || १

गौरीविनायकोपेतं पंचवक्त्रं त्रिनेत्रकम् |
शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः || २

गंगाधरः शिरः पातु भालमर्धेंदुशेखरः |
नयने मदनध्वंसी कर्णौ सर्पविभूषणः || ३

घ्राणं पातु पुरारातिर्मुखं पातु जगत्पतिः |
जिह्वां वागीश्वरः पातु कन्धरां शितिकन्धरः || ४

श्रीकण्ठः पातु में कण्ठं स्कन्धौ विश्वधुरन्धरः |
भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक || ५

हृदयं शंकरः पातु जठरं गिरिजापतिः |
नाभिं मृत्युंजयः पातु कटी व्याघ्राजिनाम्बरः || ६

सक्थिनी पातु दीनार्तशरणागतवत्सलः |
ऊरु महेश्वरः पातु जानुनी जगदीश्वरः || ७

जंघे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः |
चरणौ करुणासिंधुः सर्वांगानि सदाशिवः || ८

एतां शिवबलोपेतां रक्षां यः सुकृती पठेत्
स भुक्त्वा सकलान् कमान्शि वसायुज्यमाप्नुयात् || ९

ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये |
दूरादाशु पलायन्ते शिवनामाभिरक्षणात् || १०

अभयंकरनामेदं कवचं पार्वतीपतेः |
भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् || ११

|| इति शिवरक्षास्तोत्रमं सम्पूर्णम् ||

Shiva raksha stotram lyrics – शिव रक्षा स्तोत्र

गजेंद्र मोक्ष स्तोत्रम्

Leave a Reply

Your email address will not be published. Required fields are marked *