Rama raksha stotram – श्री राम रक्षा स्तोत्र पाठ संस्कृत में
॥श्री राम रक्षा स्तोत्र॥
अस्य श्री राम रक्षास्त्रोतमंत्रस्य बुधकौशिक ऋषिः।
श्री सीतारामचन्द्रो देवता।अनुष्टुप छन्दः।
सीता शक्तिः। श्रीमान हनुमान कीलकम।
श्रीरामचन्द्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः॥
ध्यानम्
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं|
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्।
वामांकारूढ सीता मुखकमलमिलल्लोचनम नीरदाभम्|
नानालंकारदीप्तं दधतमुरुजटामण्डलम् रामचन्द्रम्॥
स्तोत्रम्
चरितं रघुनाथस्य शतकोटि प्रविस्तरम्।
एकैकमक्षरं पुंसां महापातकनाशनम्॥
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्।
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितं॥
सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम्।
स्वलीलया जगत्त्रातुं आविर्भूतमजं विभुम्॥
रामरक्षां पठेत प्राज्ञः पापघ्नीं सर्वकामदाम्।
शिरो मे राघवः पातु भालं दशरथात्मजः॥
कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुति।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः॥
जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः।
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः॥
करौ सीतापतिः पातु हृदयं जामदग्न्यजित्।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः॥
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः।
ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृताः॥
जानुनी सेतुकृत्पातु जङ्घे दशमुखान्तकः।
पादौ बिभीषणश्रीदः पातु रामोऽखिलं वपुः॥
एतां रामबलोपेतां रक्षां यः सुकृति पठेत |
स चिरायुः सुखी पुत्री विजयी विनयी भवेत्||
पातालभूतलव्योमचारिणश्छद्मचारिणः।
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः॥
रामेति रामभद्रेति रामचंद्रेति वा स्मरन्।
नरो न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति॥
जगज्जैत्रैकमंत्रेण रामनाम्नाभिरक्षितम्।
यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः॥
वज्रपञ्चरनामेऽयं रामकवचं महाबलम्।
यः पठेन्नित्यं स पातु सर्वदुःखविनाशनः॥
आदिष्टवान यथा स्वप्ने रामरक्षामिमां हरः।
तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः॥
आरामः कल्पवृक्षाणां विरामः सकलापदाम्।
अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः॥
तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ॥
फूलासितपट्टाब्धौ शरचापासिधारिणौ।
रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ॥
शरण्यो सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम्।
रामः सर्वपापघ्नोऽस्ति रामेणैव विनश्यति॥
आत्तसज्जधनुषाविषुस्पृशा वक्ष याशुगनिषङ्गसंदिनौ।
रक्षणार्णवमग्नौ दिवाकरौ त्रायेतां नो रघूत्तमावुभौ॥
सन्नद्धः कवची खड्गी चापबाणधरो युवा।
गच्छन्मनोरथोऽस्माकं रामः पातु सलक्ष्मणः॥
रामो दाशरथि: शूरो लक्ष्मणानुचरो बली।
काकुत्स्थ: पुरुष: पूर्ण: कौसल्येयो रघूत्तम:॥
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः।
जानकीवल्लभः श्रीमान् अप्रमेयपराक्रमः॥
इत्येतानि जपन नित्यं मद्भक्तः श्रद्धयान्वितः।
सर्वसिद्धिप्रदं देवमरामरक्षास्तोत्रकम्॥
रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम्।
सुमुखं सुमनोहरं च सर्वलोकमोहनम्॥
राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शान्तमूर्तिं
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम्॥
रामाय रामभद्राय रामचन्द्राय वेधसे।
रघुनाथाय नाथाय सीतायाः पतये नमः॥
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम॥
श्रीरामचन्द्रचरणौ मनसा स्मरामि।
श्रीरामचन्द्रचरणौ वचसा गृणामि॥
श्रीरामचन्द्रचरणौ शिरसा नमामि।
श्रीरामचन्द्रचरणौ शरणं प्रपद्ये॥
माता रामो मत्पिता रामचन्द्रः।
स्वामी रामो मत्सखा रामचन्द्रः॥
सर्वस्वं मे रामचन्द्रो दयालुः
नान्यं जाने नैव जाने न जाने॥
दक्षिणे कक्ष्मणो यस्य वामे च जानकात्मज |
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम्॥
लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथं ।
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम |
वातात्मजं वानरयूथमुख्यं श्री राम दूतं शरणं प्रपद्ये॥
आपदामपहर्तारं दातारं सर्वसम्पदाम्।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्॥
भर्जनं भवबीजानामर्जनं सुखसम्पदाम्।
तर्जनं यमदूतानां रामरामेति गर्जनम् ॥
रामो राजमणिः सदा विजयते रामं रमेशं भजे।
रामेणाभिहता निशाचरचमू रामय तस्मै नमः॥
रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहं।
रमे चित्तलयः सदा भवतु मे भो राम मामुद्धराः॥
राम रामेति रामेति रमे रामे मनोरमे।
सहस्रनाम तत्तुल्यं रामनाम वरानने॥
||इति श्रीरामरक्षास्तोत्रं संपूर्णम्||
Rama raksha stotram – श्री राम रक्षा स्तोत्र पाठ संस्कृत में