श्री हनुमद् रक्षास्तोत्रम् – Shri Hanumad Raksha Stotram

श्री हनुमद् रक्षास्तोत्रम् - Shri Hanumad Raksha Stotram

श्री हनुमद् रक्षास्तोत्रम् – Shri Hanumad Raksha Stotram

|| श्री हनुमद् रक्षास्तोत्रम् ||

प्रणम्य श्री गणेशं च श्री रामं मारुतिं तथा |
रक्षामिमां पठेत्प्राज्ञः श्रद्धाभक्ति समन्वितः ||

शिरो मे हनुमान् पातु भालं पवननन्दनः |
अञ्जनेयो दृशौ पातु रामचंद्र प्रियश्रुती ||

घ्राणं पातु महावीरों मुखं लक्ष्मण प्राणदः |
जिह्वां मनोजवः पातु कण्ठं पातु जितेन्द्रियः ||

स्कन्धौ महाबली पातु भुजौ संकटमोचनः |
करौ विश्वभरः पातु हृदयं सर्वशक्तिमान् ||

मध्यं पातु महातेजाः नाभिं सागरलंघनः |
रामदूतः कटी पातु सक्थिनी राक्षसेन्द्रजित ||

ऊरु पूँछबलः पातु भीमगर्वावहारकः |
जानुनी श्री प्रदः पातु जङ्घे लङ्काप्रदाहकः ||

पादौ श्री रामभक्तच्य सूर्यमंडलभक्षकः |
हनुमान् पातु मे कायं मकरध्वज जन्मदः ||

एतां रुद्राबलोपेतां रक्षां यः सुकृती पठेत् |
सदीर्घायुसुखी पुत्री बलवान् बुद्धिमान् भवेत् ||

श्री हनुमद्रक्षास्तोत्रं संपूर्णं

श्री मारुती स्तोत्र

Leave a Reply

Your email address will not be published. Required fields are marked *